|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.247. अध्यायः 247
Mahabharata - Adi Parva - Chapter Topics
कृष्णानुमत्याऽर्जुनः सुभद्रां जहारेति पौराणामूहः॥ 1 ॥ अर्जुने इन्द्रप्रस्थं प्राप्तं ज्ञात्वा यादवैः सह श्रीकृष्णस्य इन्द्रप्रस्थं प्रत्यागमनम्॥ 2 ॥ आगताञ्श्रीकृष्णादीञ्श्रुत्वा युधिष्ठिरस्य प्रत्युद्गमनं तेषां सत्कारश्च॥ 3 ॥ वैवाहिकमहोत्सवकरणम्॥ 4 ॥ पारिबर्हदानम्॥ 5 ॥ कंमचित्कालं तत्रोषितानां कुरुभिः पूजितानां बलरामादीनां द्वारकांप्रति गमनम्॥ 6 ॥ अभिमन्यूत्पत्तिः॥ 7 ॥ द्रौपद्याः युधिष्ठिरादिश्यः पञ्चपुत्रोत्पत्तिः तेषां विद्याश्यासश्च॥ 8 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-247-0x(1313)(10688)
अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे।
अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः॥ 1-247-1(10689)
पुरस्तादेव पौराणां संशयः समजायत।
जानता वासुदेवेन वासितो भरतर्षभः॥ 1-247-2(10690)
लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा।
सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः॥ 1-247-3(10691)
दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना।
अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम्॥ 1-247-4(10692)
सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम्।
भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम्॥ 1-247-5(10693)
इति पौरजनाः सर्वे वदन्ति च समन्ततः।'
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम्॥ 1-247-6(10694)
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा।
`यियासुः खाण्डवप्रस्थममन्त्रयत केशवः॥ 1-247-7(10695)
पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः।
तथा विपृथुमक्रूरं संकर्षणविडूरथौ॥ 1-247-8(10696)
मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः।
संकर्षणेन संमन्त्र्य ह्यनुज्ञातो महामनाः॥ 1-247-9(10697)
संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः।
अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम्॥ 1-247-10(10698)
ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम्।
सिंहनादः प्रहृष्टानां क्षणेन समपद्यत॥ 1-247-11(10699)
योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा।
गजांश्च परमप्रीतः समपद्यन्त वृष्णयः॥' 1-247-12(10700)
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः।
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः॥ 1-247-13(10701)
सैन्येन महता शौरिरभिगुप्तः समन्ततः।
तत्र दानपतिः श्रीमाञ्जगाम स महायशाः॥ 1-247-14(10702)
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः।
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः॥ 1-247-15(10703)
साक्षाद्वृहस्पतेः शिष्यो महाबुद्धिर्महामनाः।
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः॥ 1-247-16(10704)
प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च।
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च॥ 1-247-17(10705)
सारणश्च महाबाहुर्गदश्च विदुषां वरः।
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा॥ 1-247-18(10706)
आजग्मः खाण्डवप्रस्थमादाय हरणं बहु।
`उपहारं समादाय पृथुवृष्णिपुरोगमाः॥ 1-247-19(10707)
प्रययुः सिंहनादेन सुभध्रामवलोककाः।
ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः।
पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन्॥' 1-247-20(10708)
ततो युधिष्ठिरो सजा श्रुत्वा माघवमागतम्।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा॥ 1-247-21(10709)
ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत्।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्॥ 1-247-22(10710)
संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्।
चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम्॥ 1-247-23(10711)
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना।
हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम्॥ 1-247-24(10712)
प्रतिपेदे महाबाहुः सह रामेण केशवः।
वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः॥ 1-247-25(10713)
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः।
विवेश भवनं राज्ञः पुरन्दरगृहोपमम्॥ 1-247-26(10714)
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि।
मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे॥ 1-247-27(10715)
तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत्॥ 1-247-28(10716)
तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः।
प्रतिजग्राह सत्कारैर्यथाविधि यथागतम्॥ 1-247-29(10717)
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः॥ 1-247-30(10718)
`ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह।
पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः॥ 1-247-31(10719)
हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ।
बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत॥ 1-247-32(10720)
ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत्।
भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः॥ 1-247-33(10721)
प्रवालानि च हाराणि भूषणानि सहस्रशः।
कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान्॥ 1-247-34(10722)
विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत।
शयनासनयानैश्च युधिष्ठिरनिवेशनम्॥ 1-247-35(10723)
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः।
भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत॥' 1-247-36(10724)
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः॥ 1-247-37(10725)
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्।
चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः॥ 1-247-38(10726)
सहस्रं प्रददौ कृष्मो गवामयुतमेव च।
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्॥ 1-247-39(10727)
बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्॥ 1-247-40(10728)
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्।
शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च॥ 1-247-41(10729)
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्।
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्॥ 1-247-42(10730)
सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम्।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः॥ 1-247-43(10731)
पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः।
ददौ शतसहस्राख्यं कन्याधनमनुत्तमम्॥ 1-247-44(10732)
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः।
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः॥ 1-247-45(10733)
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्॥ 1-247-46(10734)
क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम्।
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः॥ 1-247-47(10735)
रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली।
प्रीयमाणो हलधरः संबन्धं प्रति मानयन्॥ 1-247-48(10736)
स महाधनरत्नौघो वस्त्रकम्बलफेनवान्।
महागजमहाग्राहः पताकाशैवलाकुलः॥ 1-247-49(10737)
पाण्डुसागरमाविद्धः प्रविवेश महाधनः।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्॥ 1-247-50(10738)
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्॥ 1-247-51(10739)
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः।
विजह्रुरमरावासे नराः सुकृतिनो यथा॥ 1-247-52(10740)
तत्रतत्र महानादैरुत्कृष्टतलनादितैः।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः॥ 1-247-53(10741)
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति॥ 1-247-54(10742)
रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः।
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः॥ 1-247-55(10743)
`रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा।
न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः॥ 1-247-56(10744)
पितृष्वसायाश्चरणावभिवाद्य ययौ तदा।
तस्मिन्काले पृथा प्रीता पूजयामास तं तथा॥ 1-247-57(10745)
स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः।
ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः॥ 1-247-58(10746)
वासुदेवस्तु पार्थेन तत्रैव सह भारत।
`चतुस्त्रिंशदहोरात्रं रममाणो महाबलः।'
उवास नगरे रम्ये शक्रप्रस्थे महात्मना॥ 1-247-59(10747)
व्यचरद्यमुनातीरे मृगयां स महायशाः।
मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना॥ 1-247-60(10748)
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा।
जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्॥ 1-247-61(10749)
दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम्।
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्॥ 1-247-62(10750)
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्।
अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम्॥ 1-247-63(10751)
स सात्वत्यामतिरथः संबभूव घनञ्जयात्।
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः॥ 1-247-64(10752)
यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः।
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत॥ 1-247-65(10753)
दयितो वासुदेवस्य वाल्यात्प्रभृति चाभवत्।
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः॥ 1-247-66(10754)
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः।
स चापि ववृधे बालः शुक्लपक्षे यथा शशी॥ 1-247-67(10755)
चतुष्पादं दशविधं धनुर्वेदमरिन्दमः।
अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम्॥ 1-247-68(10756)
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः।
क्रियास्वपि च सर्वासु विशेषानभ्यसिक्षयत्॥ 1-247-69(10757)
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना।
तुतोष पुत्रं सौभद्रं प्रेक्षणाणो धनञ्जयः॥ 1-247-70(10758)
सर्वसंहननोपेतं सर्वलक्षणलक्षितम्।
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्॥ 1-247-71(10759)
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्।
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्॥ 1-247-72(10760)
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽऽकृतौ।
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा॥ 1-247-73(10761)
पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा।
लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव॥ 1-247-74(10762)
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात्।
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम्॥ 1-247-75(10763)
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्।
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा॥ 1-247-76(10764)
शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम्।
परप्रहरणज्ञाने प्रतिविन्ध्यो भत्वयम्॥ 1-247-77(10765)
सुतेसोमसहस्रे तु सोमार्कसमतेजसम्।
सुतसोमं महेष्वासं सुषुवे भीमसेनतः॥ 1-247-78(10766)
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना।
जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत्॥ 1-247-79(10767)
शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः।
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्॥ 1-247-80(10768)
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते।
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः॥ 1-247-81(10769)
एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः।
अन्वजायन्त राजेन्द्र परस्परहितैषिणः॥ 1-247-82(10770)
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च।
चकार विधिवद्धौम्यस्तेषां भरतसत्तम॥ 1-247-83(10771)
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः।
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम्॥ 1-247-84(10772)
दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः।
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन्॥ ॥ 1-247-85(10773)
इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 247 ॥ ॥ समाप्तं च हरणाहरणपर्व ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-247-43 अरोगाणां स्वलङ्कृतां इति ख. पाठः॥ 1-247-74 धरा पञ्च गणानिव। इति ङ पाठः॥ 1-247-77 परप्रहरणज्ञाने शत्रुकृतप्रहारवेदनायां विध्य इव निर्विज्ञान इति प्रतिविन्ध्यः॥ सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 247 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|