(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.247. अध्यायः 247
Mahabharata - Adi Parva - Chapter Topics
कृष्णानुमत्याऽर्जुनः सुभद्रां जहारेति पौराणामूहः॥ 1 ॥ अर्जुने इन्द्रप्रस्थं प्राप्तं ज्ञात्वा यादवैः सह श्रीकृष्णस्य इन्द्रप्रस्थं प्रत्यागमनम्॥ 2 ॥ आगताञ्श्रीकृष्णादीञ्श्रुत्वा युधिष्ठिरस्य प्रत्युद्गमनं तेषां सत्कारश्च॥ 3 ॥ वैवाहिकमहोत्सवकरणम्॥ 4 ॥ पारिबर्हदानम्॥ 5 ॥ कंमचित्कालं तत्रोषितानां कुरुभिः पूजितानां बलरामादीनां द्वारकांप्रति गमनम्॥ 6 ॥ अभिमन्यूत्पत्तिः॥ 7 ॥ द्रौपद्याः युधिष्ठिरादिश्यः पञ्चपुत्रोत्पत्तिः तेषां विद्याश्यासश्च॥ 8 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-247-0x(1313)(10688)
अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे।
अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः॥ 1-247-1(10689)
पुरस्तादेव पौराणां संशयः समजायत।
जानता वासुदेवेन वासितो भरतर्षभः॥ 1-247-2(10690)
लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा।
सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः॥ 1-247-3(10691)
दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना।
अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम्॥ 1-247-4(10692)
सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम्।
भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम्॥ 1-247-5(10693)
इति पौरजनाः सर्वे वदन्ति च समन्ततः।'
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम्॥ 1-247-6(10694)
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा।
`यियासुः खाण्डवप्रस्थममन्त्रयत केशवः॥ 1-247-7(10695)
पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः।
तथा विपृथुमक्रूरं संकर्षणविडूरथौ॥ 1-247-8(10696)
मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः।
संकर्षणेन संमन्त्र्य ह्यनुज्ञातो महामनाः॥ 1-247-9(10697)
संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः।
अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम्॥ 1-247-10(10698)
ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम्।
सिंहनादः प्रहृष्टानां क्षणेन समपद्यत॥ 1-247-11(10699)
योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा।
गजांश्च परमप्रीतः समपद्यन्त वृष्णयः॥' 1-247-12(10700)
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः।
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः॥ 1-247-13(10701)
सैन्येन महता शौरिरभिगुप्तः समन्ततः।
तत्र दानपतिः श्रीमाञ्जगाम स महायशाः॥ 1-247-14(10702)
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः।
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः॥ 1-247-15(10703)
साक्षाद्वृहस्पतेः शिष्यो महाबुद्धिर्महामनाः।
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः॥ 1-247-16(10704)
प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च।
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च॥ 1-247-17(10705)
सारणश्च महाबाहुर्गदश्च विदुषां वरः।
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा॥ 1-247-18(10706)
आजग्मः खाण्डवप्रस्थमादाय हरणं बहु।
`उपहारं समादाय पृथुवृष्णिपुरोगमाः॥ 1-247-19(10707)
प्रययुः सिंहनादेन सुभध्रामवलोककाः।
ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः।
पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन्॥' 1-247-20(10708)
ततो युधिष्ठिरो सजा श्रुत्वा माघवमागतम्।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा॥ 1-247-21(10709)
ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत्।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्॥ 1-247-22(10710)
संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्।
चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम्॥ 1-247-23(10711)
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना।
हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम्॥ 1-247-24(10712)
प्रतिपेदे महाबाहुः सह रामेण केशवः।
वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः॥ 1-247-25(10713)
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः।
विवेश भवनं राज्ञः पुरन्दरगृहोपमम्॥ 1-247-26(10714)
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि।
मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे॥ 1-247-27(10715)
तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत्॥ 1-247-28(10716)
तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः।
प्रतिजग्राह सत्कारैर्यथाविधि यथागतम्॥ 1-247-29(10717)
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः॥ 1-247-30(10718)
`ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह।
पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः॥ 1-247-31(10719)
हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ।
बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत॥ 1-247-32(10720)
ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत्।
भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः॥ 1-247-33(10721)
प्रवालानि च हाराणि भूषणानि सहस्रशः।
कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान्॥ 1-247-34(10722)
विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत।
शयनासनयानैश्च युधिष्ठिरनिवेशनम्॥ 1-247-35(10723)
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः।
भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत॥' 1-247-36(10724)
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः॥ 1-247-37(10725)
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्।
चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः॥ 1-247-38(10726)
सहस्रं प्रददौ कृष्मो गवामयुतमेव च।
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्॥ 1-247-39(10727)
बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्॥ 1-247-40(10728)
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्।
शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च॥ 1-247-41(10729)
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्।
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्॥ 1-247-42(10730)
सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम्।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः॥ 1-247-43(10731)
पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः।
ददौ शतसहस्राख्यं कन्याधनमनुत्तमम्॥ 1-247-44(10732)
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः।
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः॥ 1-247-45(10733)
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्॥ 1-247-46(10734)
क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम्।
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः॥ 1-247-47(10735)
रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली।
प्रीयमाणो हलधरः संबन्धं प्रति मानयन्॥ 1-247-48(10736)
स महाधनरत्नौघो वस्त्रकम्बलफेनवान्।
महागजमहाग्राहः पताकाशैवलाकुलः॥ 1-247-49(10737)
पाण्डुसागरमाविद्धः प्रविवेश महाधनः।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्॥ 1-247-50(10738)
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्॥ 1-247-51(10739)
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः।
विजह्रुरमरावासे नराः सुकृतिनो यथा॥ 1-247-52(10740)
तत्रतत्र महानादैरुत्कृष्टतलनादितैः।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः॥ 1-247-53(10741)
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति॥ 1-247-54(10742)
रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः।
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः॥ 1-247-55(10743)
`रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा।
न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः॥ 1-247-56(10744)
पितृष्वसायाश्चरणावभिवाद्य ययौ तदा।
तस्मिन्काले पृथा प्रीता पूजयामास तं तथा॥ 1-247-57(10745)
स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः।
ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः॥ 1-247-58(10746)
वासुदेवस्तु पार्थेन तत्रैव सह भारत।
`चतुस्त्रिंशदहोरात्रं रममाणो महाबलः।'
उवास नगरे रम्ये शक्रप्रस्थे महात्मना॥ 1-247-59(10747)
व्यचरद्यमुनातीरे मृगयां स महायशाः।
मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना॥ 1-247-60(10748)
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा।
जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्॥ 1-247-61(10749)
दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम्।
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्॥ 1-247-62(10750)
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्।
अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम्॥ 1-247-63(10751)
स सात्वत्यामतिरथः संबभूव घनञ्जयात्।
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः॥ 1-247-64(10752)
यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः।
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत॥ 1-247-65(10753)
दयितो वासुदेवस्य वाल्यात्प्रभृति चाभवत्।
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः॥ 1-247-66(10754)
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः।
स चापि ववृधे बालः शुक्लपक्षे यथा शशी॥ 1-247-67(10755)
चतुष्पादं दशविधं धनुर्वेदमरिन्दमः।
अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम्॥ 1-247-68(10756)
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः।
क्रियास्वपि च सर्वासु विशेषानभ्यसिक्षयत्॥ 1-247-69(10757)
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना।
तुतोष पुत्रं सौभद्रं प्रेक्षणाणो धनञ्जयः॥ 1-247-70(10758)
सर्वसंहननोपेतं सर्वलक्षणलक्षितम्।
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्॥ 1-247-71(10759)
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्।
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्॥ 1-247-72(10760)
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽऽकृतौ।
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा॥ 1-247-73(10761)
पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा।
लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव॥ 1-247-74(10762)
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात्।
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम्॥ 1-247-75(10763)
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्।
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा॥ 1-247-76(10764)
शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम्।
परप्रहरणज्ञाने प्रतिविन्ध्यो भत्वयम्॥ 1-247-77(10765)
सुतेसोमसहस्रे तु सोमार्कसमतेजसम्।
सुतसोमं महेष्वासं सुषुवे भीमसेनतः॥ 1-247-78(10766)
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना।
जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत्॥ 1-247-79(10767)
शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः।
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्॥ 1-247-80(10768)
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते।
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः॥ 1-247-81(10769)
एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः।
अन्वजायन्त राजेन्द्र परस्परहितैषिणः॥ 1-247-82(10770)
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च।
चकार विधिवद्धौम्यस्तेषां भरतसत्तम॥ 1-247-83(10771)
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः।
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम्॥ 1-247-84(10772)
दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः।
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन्॥ ॥ 1-247-85(10773)

इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 247 ॥ ॥ समाप्तं च हरणाहरणपर्व ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-247-43 अरोगाणां स्वलङ्कृतां इति ख. पाठः॥ 1-247-74 धरा पञ्च गणानिव। इति ङ पाठः॥ 1-247-77 परप्रहरणज्ञाने शत्रुकृतप्रहारवेदनायां विध्य इव निर्विज्ञान इति प्रतिविन्ध्यः॥ सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 247 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.